|
|
 |
 |
|
|
Sri Hayagriva Kavacham – श्री हयग्रीव कवचम्
अस्य श्रीहयग्रीवकवचमहामन्त्रस्य हयग्रीव ऋषिः, अनुष्टुप्छन्दः, श्रीहयग्रीवः परमात्मा देवता, ओं श्रीं वागीश्वराय नम इति बीजं, ओं क्लीं विद्याधराय नम इति शक्तिः, ओं सौं वेदनिधये नमो नम इति कीलकं, ओं नमो हयग्रीवाय शुक्लवर्णाय विद्यामूर्तये, ओंकारायाच्युताय ब्रह्मविद्याप्रदाय स्वाहा । मम श्रीहयग्रीवप्रसाद सिद्ध्यर्थे जपे विनियोगः ॥
ध्यानम् –
कलशाम्बुधिसंकाशं कमलायतलोचनं ।
कलानिधिकृतावासं कर्णिकान्तरवासिनम् ॥ १ ॥
ज्ञानमुद्राक्षवलयं शङ्खचक्रलसत्करं ।
भूषाकिरणसन्दोहविराजितदिगन्तरम् ॥ २ ॥
वक्त्राब्जनिर्गतोद्दामवाणीसन्तानशोभितं ।
देवतासार्वभौमं तं ध्यायेदिष्टार्थसिद्धये ॥ ३ ॥
हयग्रीवश्शिरः पातु ललाटं चन्द्रमध्यगः ।
शास्त्रदृष्टिर्दृशौ पातु शब्दब्रह्मात्मकश्श्रुती ॥ १ ॥
घ्राणं गन्धात्मकः पातु वदनं यज्ञसम्भवः ।
जिह्वां वागीश्वरः पातु मुकुन्दो दन्तसंहतीः ॥ २ ॥
ओष्ठं ब्रह्मात्मकः पातु पातु नारायणोऽधरं ।
शिवात्मा चिबुकं पातु कपोलौ कमलाप्रभुः ॥ ३ ॥
विद्यात्मा पीठकं पातु कण्ठं नादात्मको मम ।
भुजौ चतुर्भुजः पातु करौ दैत्येन्द्रमर्दनः ॥ ४ ॥
ज्ञानात्मा हृदयं पातु विश्वात्मा तु कुचद्वयं ।
मध्यमं पातु सर्वात्मा पातु पीताम्बरः कटिम् ॥ ५ ॥
कुक्षिं कुक्षिस्थविश्वो मे बलिबन्धो (भङ्गो) वलित्रयं ।
नाभिं मे पद्मनाभोऽव्याद्गुह्यं गुह्यार्थबोधकृत् ॥ ६ ॥
ऊरू दामोदरः पातु जानुनी मधुसूदनः ।
पातु जंघे महाविष्णुः गुल्फौ पातु जनार्दनः ॥ ७ ॥
पादौ त्रिविक्रमः पातु पातु पादाङ्गुळिर्हरिः ।
सर्वांगं सर्वगः पातु पातु रोमाणि केशवः ॥ ८ ॥
धातून्नाडीगतः पातु भार्यां लक्ष्मीपतिर्मम ।
पुत्रान्विश्वकुटुंबी मे पातु बन्धून्सुरेश्वरः ॥ ९ ॥
मित्रं मित्रात्मकः पातु वह्न्यात्मा शत्रुसंहतीः ।
प्राणान्वाय्वात्मकः पातु क्षेत्रं विश्वम्भरात्मकः ॥ १० ॥
वरुणात्मा रसान्पातु व्योमात्मा हृद्गुहान्तरं ।
दिवारात्रं हृषीकेशः पातु सर्वं जगद्गुरुः ॥ ११ ॥
विषमे संकटे चैव पातु क्षेमंकरो मम ।
सच्चिदानन्दरूपो मे ज्ञानं रक्षतु सर्वदा ॥ १२ ॥
प्राच्यां रक्षतु सर्वात्मा आग्नेय्यां ज्ञानदीपकः ।
याम्यां बोधप्रदः पातु नैरृत्यां चिद्घनप्रभः ॥ १३ ॥
विद्यानिधिस्तु वारुण्यां वायव्यां चिन्मयोऽवतु ।
कौबेर्यां वित्तदः पातु ऐशान्यां च जगद्गुरुः ॥ १४ ॥
उर्ध्वं पातु जगत्स्वामी पात्वधस्तात्परात्परः ।
रक्षाहीनं तु यत्स्थानं रक्षत्वखिलनायकः ॥ १४ ॥
एवं न्यस्तशरीरोऽसौ साक्षाद्वागीश्वरो भवेत् ।
आयुरारोग्यमैश्वर्यं सर्वशास्त्रप्रवक्तृताम् ॥ १६ ॥
लभते नात्र सन्देहो हयग्रीवप्रसादतः ।
इतीदं कीर्तितं दिव्यं कवचं देवपूजितम् ॥ १७ ॥
इति हयग्रीवमन्त्रे अथर्वणवेदे मन्त्रखण्डे पूर्वसंहितायां श्रीहयग्रीवकवचं संपूर्णम् ॥

|



|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |